|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.25. अध्यायः 025
Mahabharata - Adi Parva - Chapter Topics
विनतया कद्रूवहनं गरुडेन सर्पवहनं च॥ 1 ॥ सूर्यातपतप्तस्वपुत्ररक्षार्थं कद्रूकृत इन्द्रस्तवः॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
सौतिरुवाच। 1-25-0x(101)(1369)
ततः कामगमः पक्षी महावीर्यो महाबलः।
मातुरन्तिकमागच्छत्परं पारं महोदधेः॥ 1-25-1(1370)
यत्र सा विनता तस्मिन्पणितेन पराजिता।
अतीव दुःखसंतप्ता दासीभावमुपागता॥ 1-25-2(1371)
ततः कदाचिद्विनतां प्रणतां पुत्रसन्निधौ।
काले चाहूय वचनं कद्रूरिदमभाषत॥ 1-25-3(1372)
नागानामालयं भद्रे सुरम्यं चारुदर्शनम्।
समुद्रकुक्षावेकान्ते तत्र मां विनते नय॥ 1-25-4(1373)
सौतिरुवाच। 1-25-5x(102)
ततः सुपर्णमाता तामवहत्सर्पमातरम्।
पन्नगान्गरुडश्चापि मातुर्वचनचोदितः॥ 1-25-5(1374)
स सूर्यमभितो याति वैनतेयो विहंगमः।
सूर्यरश्मिप्रतप्ताश्च मूर्च्छिताः पन्नगाऽभवन्॥ 1-25-6(1375)
तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत्।
नमस्ते सर्वदेवेश नमस्ते बलसूदन॥ 1-25-7(1376)
नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते।
सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव॥ 1-25-8(1377)
त्वमेव परमं त्राणमस्माकममरोत्तम।
ईशो असि पवः स्रष्टुं त्वमनल्पं पुरंदर॥ 1-25-9(1378)
त्वमेव मेघस्त्वं वायुस्त्वमग्निर्विद्युतोऽम्बरे।
त्वमभ्रगणविक्षेप्ता त्वामेवाहुर्महाघनम्॥ 1-25-10(1379)
त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः।
स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः॥ 1-25-11(1380)
त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः।
त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः॥ 1-25-12(1381)
त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम्।
त्वं सर्वममृतं देव त्वं सोमः परमार्चितः॥ 1-25-13(1382)
त्वं मुहूर्तस्तिथिस्त्वं च त्वं लवस्त्वं पुनः क्षणः।
शुक्लस्त्वं बहुलस्त्वं च कला काष्ठा त्रुटिस्तथा।
संवत्सरर्तवो मासा रजन्यश्च दिनानि च॥ 1-25-14(1383)
त्वमुत्तमा सगिरिवना वसुंधरा
सभास्करं वितिमिरमम्बरं तथा।
मदोदधिः सतिमितिमिङ्गिलस्तथा
महोर्मिमान्बहुमकरो झषाकुलः॥ 1-25-15(1384)
महायशास्त्वमिति सदाऽभिपूज्यसे
मनीषिभिर्मुदितमना महर्षिभिः।
अभिष्टुतः पिबसि च सोममध्वरे
कषट्कृतान्यपि च हवींषि भूतये॥ 1-25-16(1385)
त्वं विप्रैः सततमिहेज्यसे फलार्थं
वेदाङ्गेष्वतुलबलौघ गीयसे च।
त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा
वेदाङ्गान्यभिगमयन्ति सर्वयत्नैः॥ ॥ 1-25-17(1386)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि पञ्चविंशोऽध्यायः॥ 25 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-25-6 अभितः संमुखम्॥ 1-25-14 बहुलः कृष्णपक्षः॥ पञ्चविंशोऽध्यायः॥ 25 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|